वांछित मन्त्र चुनें
आर्चिक को चुनें

ता꣡वा꣢नस्य महि꣣मा꣢꣫ ततो꣣ ज्या꣡या꣢ꣳश्च꣣ पू꣡रु꣢षः । उ꣣ता꣡मृ꣢त꣣त्व꣡स्येशा꣢꣯नो꣣ य꣡दन्ने꣢꣯नाति꣣रो꣡ह꣢ति ॥६२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६२०॥

मन्त्र उच्चारण
पद पाठ

ता꣡वा꣢꣯न् । अ꣣स्य । महिमा꣢ । त꣡तः꣢꣯ । ज्या꣡या꣢꣯न् । च꣣ । पू꣡रु꣢꣯षः । उ꣣त꣢ । अ꣣मृतत्व꣡स्य꣢ । अ꣣ । मृतत्व꣡स्य꣢ । ई꣡शा꣢꣯नः । यत् । अ꣡न्ने꣢꣯न । अ꣣तिरो꣡ह꣢ति । अ꣣ति । रो꣡ह꣢꣯ति ॥६२०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 620 | (कौथोम) 6 » 3 » 4 » 6 | (रानायाणीय) 6 » 4 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उसी परमपुरुष की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

(तावान्) उतनी पूर्वोक्त (अस्य) इस परमेश्वर की (महिमा) महिमा है, वस्तुतः तो (पुरुषः) वह पूर्ण परमेश्वर (ततः) उससे भी (ज्यायान्) अधिक बड़ा है। (उत) और (सः) वह (अमृतत्वस्य) मोक्ष का तथा (यत्) जो (अन्नेन) अन्न के खाने से (अतिरोहति) बढ़ता है उस सांसारिक प्राणी-समुदाय का भी (ईशानः) अधिष्ठाता है ॥६॥

भावार्थभाषाः -

परमेश्वर की महिमा अवर्णनीय है, जो संसार-चक्रप्रवर्तन और मोक्ष दोनों का अधिष्ठाता है ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तस्यैव परमपुरुषस्य महिमानमाह।

पदार्थान्वयभाषाः -

(तावान्) तत्परिमाणः पूर्वोक्तः (अस्य) परमेश्वरस्य (महिमा) महत्त्वम् अस्ति, वस्तुतस्तु (पूरुषः) स पूर्णः परमेश्वरः। अत्र ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (ततः) तस्मादपि (ज्यायान्) वर्षीयान् विद्यते। (उत) अपि च, सः (अमृतत्वस्य) मोक्षस्य, (यत्) यच्च (अन्नेन) अन्नभक्षणेन (अतिरोहति) वर्द्धते तस्य सांसारिकस्य प्राणिजातस्य च (ईशानः) अधिष्ठाता वर्तते ॥६॥२

भावार्थभाषाः -

अवर्णनीयः खलु परमेश्वरस्य महिमा यः संसारचक्रप्रवर्तनं मोक्षं चाप्यधितिष्ठति ॥६॥

टिप्पणी: १. ऋ० १०।९०।३, य० ३१।३, उभयत्र ‘एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि’ इति पाठः। २. किं च, यज्जीवजातम् अन्नेन अतिरोहति उत्पद्यते तस्य सर्वस्य चेशानः—इति यजुर्भाष्ये भ०। यदन्नेनातिरोहति तदिदं सर्वममृतत्वस्येशानः पुरुष एव रचयति—इति च तत्रैव द०।